पान:आयुर्वेदांतील मूलतत्त्वें अथवा त्रिदोष.pdf/१५१

या पानाचे मुद्रितशोधन झालेले आहे
१३८
आयुर्वेदांतील मूलतत्वें.


कटुकाम्लौ रसौ वर्णः पांडुरारुणवर्जितः ॥
श्लेष्मणः स्नेहकाठिन्यकंडूशीतत्वगौरवम्
बंधोपलेपस्तै मित्यशोफापक्यातिनिद्रताः ॥
वर्णः श्वेतो रसौ स्वादुलवणौ चिरकारिता(४३)

(अ. हृ सु. अ. १२ श्लो. ४८/२४)

(१९) वातस्योपक्रमः स्नेहः स्वेदः संशोधनं मृदु ॥
स्वाद्वम्ललवणोष्णानि भोज्यान्यभ्यंगमर्दनम् ॥(४४)
वेष्टनं त्रासनं सेको मद्यं पौष्टिकगौडिकम् ॥
स्निग्धोष्णा बस्तयो बस्तिनियमः सुखशीलता ॥(४५)
दीपनैः पाचनैः सिद्धाः स्नेहाश्चानेकयोनयः ॥
विशेषान्मेध्यपिशितरसतैलानुवासनम् ॥( ४६ )
पित्तस्य सर्पिष: पानं स्वादुशीतैर्विरेचनं ॥
स्वादुतिक्तकषायाणि भोजनान्यौपधानि च ॥(४७)
सुगंधशीतहृद्यानां गंधानामुपसेचनम् ॥
कंठे गुणानां हाराणां मणीनामुरसा धृतिः ।(४८)
कर्पूर चंदन शीरैरनुलेपः क्षणे क्षणे ।
प्रदोषश्चंद्रमाः सौधं हारिगीतं हिमोऽनिलः ।(४९)
अयंत्रणसुखं मित्रं पुत्रः संदिग्धमुग्धवाक् ॥
छंदानुवर्तिनो दाराः प्रियाः शीलविभूषिताः ।।( ५० )
शीतांबुधारगर्माणि गृहाण्युद्यानदीर्घिकाः
सुतीर्थ्विपुलस्वच्छसलिलाशयसैकते
सांभोजजलतीरांते कायमाने द्रुमाकुल ॥
सौम्या भावाः पयः सपिर्विरंकश्च विशेषतः ॥( ५२ )
श्लेष्मणो विधिना युक्तं तीक्ष्णं वमनरेचनं ॥
अन्नं रूक्षाल्पतीक्ष्णोष्णं कटुतिक्तकपायकं
दीर्घकालस्थितं मद्यं र तिप्रतिप्रजागरः
अनेक रूपो व्यायामश्चिंता रूक्षं विमर्दनम् ॥(५४)
विशेष द्वमनं यूपः क्षौद्रं मेदोघ्नंमोषधं ।।
धूमोपवासगंडूषा निःसुखत्वं सुखाय च ॥(५५)

( अ० हृ० सू० १३ श्लो० १-१२ )

(२०) यथावलं यथास्वं च दोषा वृद्धा वितन्वते
रूपाणि जहति क्षीणाः समाः स्वं कर्म कुर्वते ।।(५६)

( अ० हृ० सू० अ० ११ शो० ४४. )

( २१ ) देशोऽल्पवारिद्रुनगो जांगलः स्वल्परोगदः
आनूपो विपरीतोऽस्मात्समः साधारणः स्मृतः ॥ (५७)

( अ० हृ० शा० अ० श्लो० ७९ )