९२ पुराणनिरीक्षण. चैलादिसर्वमासेषु तिथीनां च पृथक् पृथक् । प्रोक्तं प्रतिपदादीनां व्रतं सर्वौघनाशनम् || सनातनेन मुनिना नारदाय चतुर्थके । पूर्वभागोऽयमुदितो बृहदाख्यानसंज्ञितः अस्योत्तरविभागे त प्रश्न एकादशीव्रते । वसिष्ठेनाथ संवादो मांधातुः परिकीर्तितः ॥ रुक्मांगदकथा पुण्या मोहिन्युत्पत्तिकर्म च । वसुशापश्च मोहिन्यै पश्चादुद्धरणक्रिया || गंगा कथा पुण्यतमा गयायात्रानुकीर्तनम् । काश्या माहात्म्यमतुलं पुरुषोत्तमवर्णनम् || यात्राविधानं क्षेत्रस्य बहुवाख्यानसमन्वितम् । प्रयागस्याथ माहात्म्यं कुरुक्षेत्रस्य तत्परम् || हरिद्वारस्य चाख्यानं कामोदाव्यानकं तथा । चदरीतीर्थमाहात्म्यं कामाख्यायास्तथैव च || प्रभासस्य च माहात्म्यं पुराणाख्यानकं तथा । गौतमाख्यानकं पश्चात् वेदपादस्तु वस्तुतः ॥ गोकर्णक्षेत्रमाहात्म्यं लक्ष्मणाख्यानकं तथा । सेतुमाहात्म्यकथनं नर्मदातीर्थवर्णनम् || अवन्त्याश्चैव माहात्म्यं मथुरायास्ततः परम् । वृंदावनस्य महिमा वसोर्ब्रह्मांतिके गतिः । मोहिनीचरितं पश्चात् एवं वै नारदीयकम् ||
पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/१०७
या पानाचे मुद्रितशोधन झालेले नाही