पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/१३९

या पानाचे मुद्रितशोधन झालेले नाही

१२४ पुराणनिरीक्षण, • पुराणं लिंगमुदितं वन्ह्याख्यानं विचित्रितम् ॥ तदेकादशसाहस्रं हरमाहात्म्यसूचकम् । परं सर्वपुराणानां सारभूतं जगत्त्रये ॥ पुराणोपक्रमे प्रश्नं सृष्टिसंक्षेपतः पुरा। योगाख्यानं ततः प्रोक्तं कल्पाख्यानं ततः परम् ॥ लिंगोद्भवस्तदर्चा च कीर्तिता हि ततः परम् । सनत्कुमारशैलादिसंवादश्चाथ पावनः ॥ ततो दधीचिचरितं युगधर्मनिरूपणम् । ततो भुवनकोशाख्यो सूर्यसोमान्त्रयस्तथा ॥ ततश्च विस्तरात्सर्गस्त्रिपुराख्यानकं तथा । लिंगप्रतिष्ठा च तथा पशुपाशविमोक्षणम् । शिवव्रतानि च तथा सदाचारनिरूपणम् || प्रायश्चित्तान्यरिष्टानि काशी श्री शैलवर्णनम् । अंधकाख्यानकं पश्चाद्वाराहचरितं पुनः ॥ नृसिंहचरितं पश्चाज्जलंधरवधस्ततः । शवं सहस्रनामाऽथ दक्षयज्ञविनाशनम् । कामस्य दहनं पश्चागिरिजायाः करग्रहः || ततो विनायकाख्यानं नृत्याख्यानं शिवस्य च । उपमन्युकथा चापि पूर्वभाग इतीरितः ॥ विष्णुमाहात्म्य कथनमंबरीषकथा ततः । . सनत्कुमारनंदीशसंवादश्च पुनर्मुने |