पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/१५८

या पानाचे मुद्रितशोधन झालेले नाही

प्रकरण दुसरें, कूर्मपुराण, १५ वें. मत्स्यपुराणमतें याचें लक्षण असे आहे:- - - यत्र धर्मार्थकामानां मोक्षस्य च रसातले । माहात्म्यं कथयामास कूर्मरूपी जनार्दनः ॥ इंद्रद्युम्नप्रसंगेन ऋषिभ्यः शुक्रसंनिधौ । अष्टादशसहस्राणि लक्ष्मीकल्पानुषंगिकम् || याची सूची नारदपुराणानें अशी दिलेली आहे:- शृणु वत्स ! मरीचेऽद्य पुराणं कूर्मसंज्ञितम् । लक्ष्मीकल्पानुचरितं यत्र कूर्मवपुर्हरिः ॥ धर्मार्थकाममोक्षाणां माहात्म्यं च पृथक् पृथक् ॥ इंद्रद्युम्नप्रसंगेन प्राहर्षिभ्यो दयांतिकम् । तत्सप्तदशसाहस्रं सुचतुःसंहितं शुभम् ॥ यत्र ब्राह्मयां पुरा प्रोक्ता धर्मा नानाविधा मुने || नानाकथाप्रसंगेन नृणां सद्गतिदायकाः । यत्र पूर्वविभागे तु पुराणोपक्रमः पुरा ॥ लक्ष्मीप्रद्युम्नसंवादः कूर्मर्षिगणसंकथा । वर्णसमाचारकथा जगदुत्पत्तिकीर्तनम् ॥ कालसंख्या समासेन लयांते स्तवनं विभोः । ततः संक्षेपतः सर्गः शांकरं चरितं तथा ॥ सहस्रनाम पार्वत्या योगस्य च निरूपणम् । भृगुवंशसमाख्यानं ततः स्वायंभुवस्य च । देवादीनां समुत्पत्तिः दक्षयज्ञहतिस्तथा ॥ १४३