१४८ पुराणानिरीक्षण. व्यासेन वेदावेदुषा नरसिंहोपवर्णनम् । उपक्रम्य तदुद्दिष्टं चतुर्दशसहस्रकम् || मनुमत्स्यसुसंवादो ब्रह्मांडवर्णनं ततः । ब्रह्मदेवासुरोत्पत्तिः मारुतोत्पत्तिरेव च ॥ मदनद्वादशी तद्वल्लोकपालाभिपूजनम् । मन्वंतरसमुद्देशो चैन्यराज्याभिषेचनम् ॥ सूर्यवैवस्वतोत्पत्तिर्बुधसंगमनं तथा । पितृवंशानुकथनं श्राद्धकालस्तथैव च ॥ पितृतीर्थप्रचारश्च सोमोत्पत्तिस्तथैव च । कीर्तनं सोमवंशस्य ययातिचरित्रं तथा ॥ कार्तवीर्यस्य चरितं सृष्टं वंशानुकीर्तनम् । भृगुशापस्तथा विष्णोर्दशधा जन्म च क्षितौ ॥ कीर्तन पुरुवंशस्य वंशो हौताशनः परः । क्रियायोगस्ततः पश्चात्पुराणपरिकीर्तनम् || व्रतं नक्षत्रपुरुष मार्तंडशयनं तथा । कृष्णाष्टमीव्रतं तद्वद्रोहिणीचंद्रसंज्ञितम् || तडागविधिमाहात्म्यं पादयोत्सर्ग एव च । सौभाग्यशयनं तद्वदगस्त्यनतमेव च ॥ तथाऽनंततृतीयाया रसकल्याणिनीव्रतम् । तथैवानंदकार्याश्च व्रतं सारस्वतं पुनः ॥ उपरागाभिषेकश्च सप्तमीशयनं तथा । भीमारख्या द्वादशी तद्वदनंगशयनं तथा ॥
पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/१६३
या पानाचे मुद्रितशोधन झालेले नाही