पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/१६४

या पानाचे मुद्रितशोधन झालेले नाही

प्रकरण दुसरें. अशून्यशयनं तद्वत्तथैवांऽगारकव्रतम् । सप्तमीसप्तकं तद्वद्विशोकद्वादशीव्रतम् || मेरुप्रदानं दशधा ग्रहशांतिस्तथैव च । ग्रहस्वरूपकथनं तथा शिवचतुर्दशी || तथा सर्वफलत्यागः सूर्यवारत्रतं तथा । संक्रांतिस्वपनं तद्वद्विभूतिद्वादशी व्रतम् || पष्टि व्रतानां माहात्म्यं तथा स्नानविधिक्रमः ॥ प्रयागस्य तु माहात्म्यं द्वीपलोकानुवर्णनम् । तथांतरिक्षचारश्च ध्रुवमाहात्म्यमेव च ॥ भुवनानि सुरेंद्राणां त्रिपुरोद्योतनं तथा । पितृप्रवरमाहात्म्यं मन्वंतरविनिर्णयः ॥ चतुर्युगस्य संभूतिर्युगधर्मानरूपणम् । वज्रांगस्य तु संभूतिस्तारकोत्पत्तिरेव च ॥ तारकासुरमाहात्म्यं ब्रह्मदेवानुकीर्तनम् । पार्वतीसंभवस्तद्वत्तथा शिवतपोवनम् || अनंगदेहदाहश्च रतिशोकस्तथैव च । गौरीतपोवनं तद्वच्छिवेनाथ प्रसादनम् ॥ पार्वतीऋषिसंवादः तथैवोद्वाहमंगलम् । कुमारसंभवस्तद्वत् कुमारविजयस्तथा ॥ तारकस्य वधो घोरो नरसिंहोपवर्णनम् || पद्मोद्भवविसर्गस्तु तथैवांधकघातनम् । चाराणस्यास्तु माहात्म्यं नर्मदायास्तथैव च ॥