पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/१७५

या पानाचे मुद्रितशोधन झालेले नाही

पुराणनिरीक्षण. .. यम् भविष्यराजचरितं संप्राप्तेऽथ कलौ युगे । एवमुद्धातपादोऽयं तृतीयो मध्यमे दले चतुर्थमुपसंहारं वक्ष्ये खंडे तथोत्तरे | वैवस्वतांतराख्यानं विस्तरेण पूर्वमेव समुद्दिष्टं संक्षेपादिह थ्यते ।। भविष्याणां मनूनां च चरितं हि ततः परम् । कल्पप्रलयनिर्देशः कालमानं ततः परम् । लोकाश्चतुर्दश ततः कथिता मानलक्षणैः ॥ वर्णनं नरकानां च विकर्माचरणैस्ततः ॥ मनोमयपुराख्यानं लयः प्राकृतिकस्ततः । शवस्याथ पुरस्यापि वर्णनं च ततः परम् || त्रिविधाद्गुणसंबंधात् जंतूनां कीर्तिता गतिः ॥ अनिर्देश्याप्रतर्क्यस्य ब्रह्मणः परमात्मनः । अन्वयव्यतिरेकाभ्यां वर्णनं हि ततः परम् । इत्येष उपसंहारः पादो वृत्तः स चोत्तरः ॥ चतुष्पादं पुराणं ते ब्रह्मांडं समुदाहृतम् । अष्टादशमनौपम्यं सारात्सारतरं द्विज || ब्रह्मांडं च चतुर्लक्षं पुराणत्वेन पठ्यते । तदेव चास्य गदितं अत्राऽष्टादशधा पृथक् । पाराशर्येण मुनिना सर्वेषामपि मानद ॥ वस्तु दृष्ट्वाथ तेनैव मुनीनां भावितात्मनाम् ।