पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/६२

या पानाचे मुद्रितशोधन झालेले नाही

प्रकरण दुसरे. आतां नारदपुराणानें या पुराणाची विषयानुक्रमणी कशी दिली आहे हैं पाहूं:- शृणु पुत्र प्रवक्ष्यामि पुराणं पद्मसंज्ञकम् । महत्पुण्यप्रदं नॄणां शृण्वतां पठतां मुदा ॥ यथा पंचेंद्रियः सर्वः शरीरीति निगद्यते । तथेदं पंचभिः खंडैरुदितं पापनाशनम् || ( सृष्टिखंडे ) पुलस्त्येन तु भीष्माय सृष्ट्यादिक्रमतो द्विज । नानाख्यानेतिहासाद्यैर्यत्रोक्तो धर्मविस्तरः || पुष्करस्य तु माहात्म्यं विस्तरेण प्रकीर्तितम् । ब्रह्मयज्ञविधानं च वेदपाठादिलक्षणम् || दानानां कीर्तनं यत्र त्रतानां च पृथक् पृथक् । विवाहः शैलजायाश्च तारकाख्यानकं महत् ॥ माहात्म्यं च गवादीनां कीर्तिदं सर्वपुण्यदम् । कालकेयादिदैत्यानां वधो यत्र पृथक् पृथक् || ग्रहाणामर्चनं दानं यत्र प्रोक्तं द्विजोत्तम । तत्सृष्टिखंडमुद्दिष्टं व्यासेन सुमहात्मना ॥ ( भूमिखंडे. ) पितृमात्रादिपूज्यत्वे शिवशर्मकथा पुरा । सुव्रतस्य कथा पश्चात् वृत्रस्य च वधस्तथा ॥ पृथोर्वैन्यस्य चाख्यानं धर्माख्यानं ततः परम् । २