४८ पुराणानिरीक्षण, पितृशुश्रूषणाख्यानं नहुषस्य कथा ततः ॥ ययातिचरितं चैव गुरुतीर्थनिरूपणम् । राज्ञा जैमिनिसंबादो बचाश्चर्यकथा तथा ॥ कथा ह्यशोकसौंदर्या हिंडदैत्यवधान्विता । कामोदाख्यानकं तत्र विडुंडवघसंयुतम् ॥ कुंडलस्य च संवादश्व्यवनेन महात्मना । सिद्धाख्यानं ततः प्रोक्तं खंडस्यास्य फलोदयम् ॥ सूतशौनकसंवादं भूमिखंडमिदं स्मृतम् । ( स्वर्गखंडे. ) ब्रह्मांडोत्पत्तिरुदिता यत्रर्षिभिश्च सौतिना । सभूमिलोकसंस्थानं तीर्थाख्यानं ततः परम् ॥ नर्मदोत्पत्तिकथनं तत्तीर्थानां कथाः पृथक् । कुरुक्षेत्रादितीर्थानां कथाः पुण्याः प्रकीर्तिताः ॥ कालिंदी पुण्यकथनं काशीमाहात्म्यवर्णनम् । गयायाश्चैव माहात्म्यं प्रयागस्य च पुण्यकम् || वर्णाश्रमानुरोधेन कर्मयोगनिरूपणम् । व्यासजैमिनिसंवादः पुण्यकर्मकथाचितः ॥ समुद्रमथनाख्यानं व्रतारख्यानं ततः परम् । ऊर्जपंचाहमाहात्म्यं स्तोत्रं सर्वापराधनुत् || एतत्स्वर्गाभिधं विप्र ! सर्वपातकनाशकम् || (पातालखंडे. ) रामाश्वमेधे प्रथमं रामराज्याभिषेचनम् ।
पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/६३
या पानाचे मुद्रितशोधन झालेले नाही