पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/७४

या पानाचे मुद्रितशोधन झालेले नाही

प्रकरण दुसरें. चतुर्थीशे सदाचारश्च कथितो मायामोहकथा ततः । तृतीयोंशोऽयमुदितः सर्वपापप्रणाशनः । | सूर्यवंशकथा पुण्या सोमवंशानुकीर्तनम् ॥ चतुर्थाशे मुनिश्रेष्ठ ! नानाराजकथोचितम् ॥ पंचमांशे | कृष्णावतारसंप्रश्नी गोकुलीयकथा ततः । पूतनादिवधो बाल्ये कौमारेऽघादिहिंसनम् || कैशोरे कंसहननं माथुरं चरितं तथा । ततस्तु यौवने प्रोक्ता लीला द्वारावतीभवा || सर्वदैत्यवधो यत्र विवाहाश्च पृथग्विधाः । यत्र स्थित्वा जगन्नाथः कृष्णो योगेश्वरेश्वरः || भूभारहरणं चक्रे परस्वहननादिभिः । अष्टावक्रीयमाख्यानं पंचमोंडश इतीरितः ॥ षष्ठांशे । कलिजं चरितं प्रोक्तं चातुर्विध्यं लयस्य च । ब्रह्मज्ञानसमुद्देशः खांडिक्यस्य निरूपितः । केशिध्वजेन चेत्येष षष्ठोंऽशः परिकीर्तितः ॥ उत्तरभागे। अतः परस्तु सूतेन शौनकादिभिरादरात् । पृष्टेन चोदिताः शश्वद्विष्णुधर्मोत्तराव्हयाः ॥ नानाधर्मकथाः पुण्या व्रतानि नियमा यमाः । धर्मशास्त्रं चार्थशास्त्रं वेदांतं ज्योतिषं तथा । वंशाख्यानप्रकरणात् स्तोत्राणि मलयस्तथा ||

  • यांत भविष्यत्काळच्या राजांचें वर्णन आहे असे म्हटलेले आढळत नाहीं, हें

लक्षांत ठेवण्यासारखें आहे.