पुराणनिरीक्षण. तदुक्तेनैव धर्मेण शैवास्त्रैवर्णिका नराः ॥ एकजन्मनि मुच्यंते प्रसादात्परमेष्ठिनः ॥ तस्माद्विमुक्तिमन्विच्छाच्छवमेव समाश्रयेत् । तमाश्रित्यैव देवानां अपि मुक्तिर्न चान्यथा ॥ यदिदं शैवमाख्यातं पुराणं वेदसंमितम् || तस्य भेदात्समासेन ब्रुवतो मे निबोधत । विद्येश्वरं तथा रौद्रं वैनायकमनुत्तमम् ॥ औमं मातृपुराणं च रुदैकादशकं तथा । कैलास शतरुद्रं च कोटिरुद्राख्यमेव च ॥ सहस्रकोटिरुद्राख्यं वायवीयं ततः परम् || धर्मसंज्ञं पुराणं चेत्येवं द्वादश संहिताः । विद्येशं दशसाहस्रं उदितं ग्रंथसंख्यया || रौद्रं विनायकं चौमं मातृकाख्यं ततः परम् । प्रत्येकमष्टसाहस्रं त्रयोदशसहस्रकम् ॥ रुद्रैकादशकाख्यं यत् कैलासं षट्सहस्रकम् । शतरुद्रं दशप्रोक्तं कोटिरुद्रं तथैव च ॥ सहस्रकोटिरुद्राख्यं दशसाहस्रकं तथा । तदेतद्वायुना प्रोक्तं चतुःसाहस्रमीरितम् ॥ तथा पंचसहस्रं तु यदेतद्धर्मनामकम् । तदेवं लक्षमुद्दिष्टं शैवं शाखाविभेदतः ॥ शिवपुराण, वायुसंहिता, अ. १ ला. हैं एक वेगळेच प्रकरण आहे ! याच्या १२ संहिता मिळून एक लक्ष
पान:पुराणनिरीक्षण-पूर्वार्ध.pdf/८१
या पानाचे मुद्रितशोधन झालेले नाही