या पानाचे मुद्रितशोधन झालेले नाही

( २१३ ) निर्वीरोर्वीकरणाय विमुक्तशिख इव लिलेख मणिकुट्टिममितरः पाद- पद्मः । दर्पस्फुटितसरसत्रणोच्छलितरुधिरच्छटावसेकै: शोकविषम. सुप्तं प्रबोधयन्निव पराक्रममनुजमवादीत् - 'आयुष्मन्, इदं राजकुलम् । अमी बान्धवाः | परिजनोऽयम् । इयं भूमिः । भूपतिभुजपरिघपालि- ताश्चैताः प्रजाः । गतोऽहमद्यैव मालवराजकुलप्रलयाय | इदमेव ताव- इल्कलग्रहणमिदमेव तपः शोकापगमोपायश्चायमेव यदत्यन्ताविनीता रिनिग्रहः । सोऽयं कुरङ्गकैः कचग्रहः केसरिणः । भे: करपातः कालसर्पस्य | वत्सन्दिग्रहो व्याघ्रस्य । अलगदंगलग्रहो गरुडस्य | दारुभिर्दाहादेशो दहनस्य | तिमिरैस्तिरस्कारो रवेः । यो मालवैः परिभवः पुष्पभूतिवंशस्य । अन्तरितस्तापो मे महियसा मन्युना । तिष्ठन्तु सर्व एव राजानः करिणश्च त्वयैव सार्धम् । अयमेको भण्डिर- युतमात्रेण तुरङ्गमाणामनुयातु माम् ।' इत्यभिधाय चानन्तरमेव प्रयाण- पटहमादिदेश । " युद्धास जाण्यासंबंधानें उभयबंधूंचें समयोचित व सप्रेम भाषण. “तं च तथा समादिशन्तमाकर्ण्य जामिजामातृवृत्तांत विज्ञान प्रको पाधानदूयमाने मनसि निवर्तनादेशेन दूरमरूढमणयपीड इव प्रोवाच देवो हर्प:- ‘ कमिव दोषं पश्यत्यार्यो ममानुगमनेन । यदि बाल इति नितरां तर्हि न त्याज्योऽस्मि । रक्षणीय इति भवद्भुजपचरं रक्षास्था- नम् । अशक्त इति क परीक्षितोऽस्मि । संवर्धनीय इति वियोगस्तनू- करोति । अक्लेशसह इति स्त्रीपक्षे निक्षिप्तोऽस्मि । सुखमनुभवविति त्वयैव सह तत्प्रयाति । महानध्वनः क्लेश इति विरहोऽविषह्यतरः । कलत्रं रक्षत्विति श्रीस्ते निस्त्रिंशेऽधिवसति । पृष्ठतस्तिष्ठत्विति तिष्ठ त्येव प्रतापः | राजकमनधिष्ठितमिति तत्सुबद्धमार्यगुणैः । न बाह्यः सहायो महत इति व्यतिरिक्त मित्र मां गणयति । मलघुपरिकरः प्रया- मीति पादरजसि कोऽतिभार: । द्वयोर्गमनमसांप्रतमिति मामनुग्रहाण गमनाज्ञया । कातरो भ्रातृस्नेह इति सदृशो दोषः । का चेयमात्मंभ. रिता भुजस्य ते यदेकाकी क्षीरोदफेनपटलपाण्डुरममृतमिव यशः पिपासति। अवञ्चितपूर्वोऽस्मि मसादेषु । तत्मसीदत्वार्यो नयतु मामपि ' इत्यभिधाय क्षितितलविनिहितमौलिः पादयोरपतत् ।"