या पानाचे मुद्रितशोधन झालेले नाही

( २१६ ) मनसापि विमलयशोबान्धवाध्यायेयुरकार्यम्। सर्वग्रहाभिभवभास्वराणां हि सुभटकराणामग्रतो दिग्ग्रहणे पङ्गवः पतङ्गराः महामहिपतरङ्गभ ङ्गभङ्गुरभीषणान्तराला लोकप्रवादमात्रेण दक्षिणाशा परमार्थतो भटभु- कुटिरधिवासो यमस्य । चित्रं च यदुन्मुक्तसिंहनादानां सहसा साहस- रसरोमाञ्चकण्टकनिकरेण सहन निर्यान्ति सटाः शूराणां रणेषु द्वयमेव च चतुःसागरसंभूतस्य भूतिसंभारस्य भाजनं प्रतिपक्षदाहि दारुणं वडवा- मुखं वा महापुरुषहृदयं वा। तेजस्विनः सकलाननवाप्य पथोराशिसहजस्य कुतो निवृत्तिरुप्मणः । वृथा विततविपुलफणाभारो भुजङ्गनां भर्ता विभर्ति यो भोगेन मृत्पिण्डमेव केवलम् । अप्रतिहत शासनाक्रान्त्युपभोगसुख रसं तु रसाया दिकुञ्जरकरभारभास्वरमकोष्ठा वीरबाहव एव जानन्ति । रविरिवोन्मुखपद्माकरगृहीतपादपछवः सुखेना खण्डिततेजा दिवसान्त्र- यति शूरः | कातरस्य तु शशिन इव हरिणहृदयस्य पाण्डुरपृष्ठस्य कुतो द्विरात्रमपि निश्चला लक्ष्मीः । अपरिमितयशःप्रकरवर्षी विकासी वीररसः पुरःप्रवृत्तमतापमहताः पन्थानः पौरुषस्य | शब्द- विद्रुतद्विषन्ति भवन्ति द्वाराणि दर्पस्य | शस्त्रालोकप्रकाशिताः शून्या दिश: शौर्यस्य ।रिपुरुधिरशीकरासारेण भूवि राज्य ते । नखराजिरिव । श्रीरप्पेनु बहुनरपतिमुकुटमणिशिलाशाणकोणकपणेन चरण. राजताप्युज्ज्वलीभवति । अनवरतशस्त्राभ्यसेन रिपुमुखानि श्यामीभवन्ति । करतलानीव विविधत्रणव- पकशतैः शरीरमित्र यशोऽपि धवलीभवति धवलीभवति । कवचिषु रिपूरकवाटेषु पात्यमानाः पावकशिखामिव श्रियमपि वमन्ति निष्ठुरा निशिमहाराः | यश्चततस्वजनो मनस्विजनो द्विपद्योषिदु- रस्ताडनेन कथयति हृदयदुःखम् । परुषासिलतानिपातपवनेनोच्छ्व सिति । निरुच्छ्वसितशत्रुशरीराश्रुधारापातेन रोदिति । विपक्षवनि- । ताचक्षुपा ददाति जलं स श्रेयान्नेतरः । न च स्वमदृष्टनष्टेष्विव क्षणिकेषु शरीरेषु निवघ्नन्ति वन्धुबुद्धिं प्रबुद्धाः । स्थायिनि यशसि शरी- रथीवीराणाम् | अनवरतप्रज्वलिततेजःमसरभास्वरस्वभावं च मणि.. मदीपमित्र कलुपः कज्जलमलो न स्पृशत्येव तेजस्विनं शोकः । स त्वं सत्ववतामग्रणीः प्राग्रहरः प्राज्ञानां प्रथमः समर्थानां मष्ठोऽभिजाताना- मग्रेसरस्तेजस्विनामादिरसहिष्णूनाम् । एताश्च सततसंनिहितधूमाय- . "