या पानाचे मुद्रितशोधन झालेले नाही

( २२३ तसेच पुत्राविषयी मातेचे प्रेम कसें असतें याविषयीं बाणपुत्रानें कादं- बरीच्या उत्तराधीत दाखविले आहे. बाणपुत्र यानें वर्णिलेलें माता व पुत्र यांचें परस्परांविषयीं प्रेम. चन्द्रापीड हा वैशंपायनास आणण्याकरितां फिरून दूर जाऊं लागला असतां त्याची आई विलासवती होस पुत्रविरह असह्य वाटून तिचें त्यास ह्मणणे, व चंद्रापीडाची आपल्या आईस सप्रेम विनंति यांत उभयतांचें प्रे- महि कवीने दाखविलें आहे. "तात युज्यते ह्यङ्कलालितस्य गर्भरूपस्य प्रथमगमने गरीयसी हृदय- पीडा । मम पुनर्नेहशी प्रथमगमनेऽपि ते पीडा समुत्पन्ना यादृशी तव गमनेनाधुना । दीर्यत इव मे हृदयम् । समुत्पाटचन्त इव मर्माणि उत्कथ्यत इव शरीरम् | उत्प्लवत इव चेतः । विघटन्त इव सन्धिब न्धनानि । निर्यान्तीव प्राणाः । न किञ्चत्समादधाति धीः । सर्वमेव शून्यं पश्यामि । न पारयाम्यात्मानमिव हृदयं धारयितुम् | धृतोऽपि बलादागच्छति बाप्पोत्पीड | मुहुर्मुहुः समाहितापि मङ्गलसंपादनाय ते न चलति मतिः । न जानाम्येव किमुत्पश्यामीति । किं निमित्तं चेयमीदृशी हृदयपीडेत्येतदपि न वेधि । किं बहुभ्यो दिवसेभ्यः कथ मध्यागतो मे वत्सो झटित्येव पुनर्गच्छतीति । किं वैशंपायनवियोगा- दुद्विग्रस्य गमन मेकाकिनस्ते समुत्प्रेक्ष्येति । न पुनर्वैशंपायनवृत्तान्ता- दात्मन एव दुःखिततयेति । न चैवंविधया पीडया वैशंपायनानयनाय गच्छतस्ते गमनं निवारयितुं पारयति वाणी | हृदयं पुनर्नेच्छत्येव त्वदीयं गमनम् । तदीदृशीं मे पीडां विज्ञाय यथा पुरा स्थितं न तथा कचिदासङ्गमावध्यातिदीर्घकालमायुष्मता स्थातव्यम् । अस्य चार्थ- स्य कृते साञ्जलेबन्धेन शिरसाभ्यर्थये वत्सम् स्वमातरं सुदूरं प्रसारितावनम्रमूर्तिश्चन्द्रापडो अम्ब, तदा दिग्विजयप्रसंगास्थितम् | अधुना पुनरयमेव कालक्षेपो यावत्तमुद्देशं परापतामि । तत्पुनश्चिरागमनकृता न भावनीया मना- गपि हृदये पीडा त्वया । इत्येवं विज्ञप्ता चन्द्रापीडेन संनिरुध्य बाप्पवेगान्कथंकथमपि संस्तभ्यात्मानं निर्वर्तितगमनमङ्गला गलता प्रत्रवेण सिञ्चन्ती शिरसि चोपाघ्राय गाढं सुचिरमालिङ्गय गच्छाद्ध- रिव प्राणैः कृच्छ्रान्मुमोच तं माता । 4 इत्यादिशन्तीं व्यजिज्ञपत् ।