या पानाचे मुद्रितशोधन झालेले आहे
( १६ )
बाणादिमहाकविवर्णितश्रीहर्षमहाराजानां दानपत्रम्

 “ श्रीस्स्वस्ति महानौस्त्यश्व जयस्कंधावाराच्छ्रीवर्द्धमानकोट्या महाराजश्रीनरवर्द्धनस्तस्यपुत्रस्तत्पादानुध्यातः श्रीवज्रिणीदेव्यामुत्पन्न परमादित्यभक्तो महाराजश्रीराज्यवर्द्धनस्तस्य पुत्रस्तत्पादानुध्यातः श्रीमदप्सरोदेव्यामुत्पन्न परमादित्यभक्तो महाराजश्रीमदादित्यवर्धनस्त- स्यपुत्रस्तत्पादानुध्यातः श्रीमहासेनगुप्तादेव्यामुत्पन्नश्चतुस्समुद्रातिक्रान्त- कीर्ति प्रतापानुरागोपनतान्यराजो वर्णाश्रमव्यवस्थापनप्रवृतचक्र एक- चक्ररथ इव प्रजानामार्तिहर-परमादित्यभक्त - परमभट्टारकमहाराजाधि राजश्री प्रभाकरवर्द्धनस्तस्यपुत्रस्तत्पादानुध्यातस्सितयश मतानविच्छ- रितसकलभुवनमण्डल परिगृहीत धनदवरुणेन्द्रप्रभृतिलोकपालतेजास्स- प्रथोपार्जितानेकद्रविणभूमिप्रदानसंप्रीणितार्थिहृदयोतिशयित पूर्व्वराज- चरितो देव्याममलयशोमत्यां श्रीयशोमत्यामुत्पन्न - परमसौगत सुगतइव परहितैकरत परमसौगतस्सुगतइव परहितैकरत परमभट्टारकमहाराजा- घिराजश्रीराज्यवर्द्धनः ।

राजानो युधि दुष्टवाजिन इव श्रीदेवगुप्तादय
कृत्वा येन कशाप्रहारविमुखाः सर्वे समं संयताः ।
उत्खाय द्विपतो विजित्य वसुधाङ्कृत्वा प्रजानां प्रियं
प्राणानुझिझतवानरातिभवने सत्यानुरोधेन यः ॥

 तस्यानुजस्तत्पादानुध्यात परममाहेश्वरी महेश्वरइव सर्वसखानुकम्पी परमभट्टारकमहाराजाधिराजश्रीहर्प आहिछत्राभुक्तावङ्गदीय वैषयिकपश्चि- मपथकसम्बद्धमर्कटसागरे समुपगतान्महासामन्तमहाराजदौस्साघसा- धनिकप्रमातारराजस्थानीयकुमारामात्योपरिक विषयपतिभटचाट सेव कादीन्मतिवासिजानपदांश्च समाज्ञापयति विदितमस्तु यथायमुपरि लिखित ग्रामस्स्वसीममापर्यन्तः सोङ्गः स्वराजकुलाभाव्यप्रत्यायसमेत सर्वपरिहतपरिहारो विषयात पिण्ड पुत्रपौवानुग चन्द्रार्कक्षितिसम कालीनो भूमिच्छिद्रन्यायेन मया पितु-परमभट्टा रकमहाराजाधिराजश्री- प्रभाकरवर्द्धनदेवस्य मातुर्भहारिकामहादेवीराज्ञीश्रीयशोमतीदेव्या ज्येष्ट भ्रातृपरमभट्टारकमहाराजाधिराजश्री राज्यवर्द्धनदेवपादानाञ्च पुण्ययशो भिवृद्धये भारद्वाजसगोत्रबह्वृचच्छन्दोगसब्रह्मचारिभट्टबालचन्द्रभ-