या पानाचे मुद्रितशोधन झालेले नाही

________________

१०२ वेदकालनिर्णय. याच अर्थाचा सामवेदाच्या तांड्य ब्राह्मणांतील अनुवाक एकाष्टकायां दीक्षेरन् ॥ १ ॥ एषा वै संवत्सरस्य पत्नी यदेकाष्टकैतस्यां वा एता रात्रि वसति साक्षादेव तत्संवत्सरमारभ्य दीक्षन्ते ॥२॥ तस्य सा निर्या यदपोऽनभिनन्दन्तोऽभ्यवयन्ति ॥३॥ विच्छिन्नं वा एते संवत्सरस्याभिदीक्षन्ते य एकाष्टकायां दीक्षन्तेऽतनामानावृतू भवतः ॥ ४॥ __ आर्त वा एते संवत्सरस्याभिदीक्षन्ते येऽतनामानावृतू अभिदीक्षन्ते ॥५॥ तस्मादकाष्टकायां न दीक्ष्यम् ॥ ६॥ फाल्गुने दीक्षेरन् ॥७॥ । मुखं वा एतत्संवत्सरस्य यत्फाल्गुनी मुखत एव तत्संवत्सरमारभ्य दीक्षन्ते ॥ ८॥ तस्य सा निर्या यत्सम्मेधे विषुवान्संपद्यते ॥ ९॥ चित्रापूर्णमासे दीक्षेरन् ॥१०॥ चक्षुर्वा एतत् संवत्सरस्य यचित्रापूर्णमासो मुखतो वै चक्षुर्मुखत एव तत्संवत्सरमारभ्य दीक्षन्ते तस्य न निर्यास्ति ॥ ११ ॥ चतुरहे पुरस्तात् पौर्णमास्या दीक्षेरन् ॥ १२ ॥ तेषामेकाष्टकायां क्रयः संपद्यते तेनैकाष्टकां न संवद कुर्वन्ति ॥ १३ ॥