पान:वैदिक तत्वमीमांसा.pdf/162

या पानाचे मुद्रितशोधन झालेले नाही

१५८ वैदिक तत्त्वमीमांसा ननु विज्ञानस्य स्वरूप-व्यतिरिक्त-ग्राह्यत्वे तत् अपि । अन्येन ग्राह्य, तत् अपि अन्येन इति अनवस्था प्राप्नोति ।। अपि च प्रदीपवत् अवभास–आत्मकत्वात् ज्ञानस्य ज्ञान-अन्तर कल्पयतः समत्वात् अबभास्य–अवभासक-भाव-अनुपपत्तेः कल्पना-अनर्थक्यं इति । तत् उभयं अपि असत् । विज्ञान-ग्रहणमात्रे' एव विज्ञान-साक्षिणः ग्रहण-आकांक्षा-अ- नुत्पादात् अनवस्था-शंका-अनुपपत्तेः । साक्षि–प्रत्यययोः च स्वभाव-वैषम्यात् उपलब्धृ उपलभ्यभाव उपपत्तेः } स्वयं सिद्भस्य च साक्षिणः अप्रत्याख्येयत्वात् । किंच अन्यत्। प्रदीपवत् विज्ञानं अवभासक-अन्तर–निरपेक्ष स्वयं एव प्रथते इति ब्रुवता अप्रमाणगम्यं विज्ञानं अनवगन्तुकं इति उक्तं स्यात् ।। शिलाघन-मध्यस्थ-प्रदीप-सहस्र-प्रथनवत् । बाढं एवम् । अनुभव-रूपत्वात् तु विज्ञानस्य इष्टः नः पक्षः त्वया अनुज्ञायते इति चेत् । न । अन्यस्य अवगन्तुः चक्षुः-साधनस्य प्रदीपादि-प्रथन-दर्शनात् । अतः विज्ञानस्य अपि अव ( १ ) अनित्य-ज्ञानस्य जन्मादिमत्त्वेन घटवत् जडस्य स्वेन स्वीय-जन्मादि-ग्रह-अयोगात् अस्ति ग्राहक-आकांक्षा । साक्षिणः तु सत्तायां स्फूतौं च निरपेक्षत्वात् न अनवस्था ॥ ( गोविंदानंद ) - (२) विज्ञानं ज्ञान-अन्तरं अनपेक्षं इति ब्रुवता तस्य अप्रामा णिकत्वं उक्तं स्यात् । स्वयं प्रथनं इति ब्रुवता ज्ञातृ-शून्यत्वं च उक्तं स्यात् । तथा च ज्ञातृ-ज्ञान-अविषयत्वात् शिलास्थ-प्रदीपवत् असत् एव विज्ञानं स्यात् । अतः तत्-साक्षी इष्टव्यः इत्यर्थः ।। ( गोविंदानंद ) । - ( ३ ) विज्ञानस्य स्व-अन्य-ज्ञातृ-शून्यत्वं इष्टं एव त्वया आपाद्यते । न च असत्त्व-आपत्तिः ज्ञातृ-अभावात् इति वाच्यम् । स्वस्थ्य एव ज्ञातृत्वात् , इति शाक्यः शंकते ।। रोविंदानंद ... !