पान:वैदिक तत्वमीमांसा.pdf/233

या पानाचे मुद्रितशोधन झालेले नाही

१३८ । वैदिक तत्त्वमीमांसा । या प्रधानवादाचे किंवा साँख्य मताचे शंकराचार्यांनी खंडन केले आहे ते असेंः-तत्र वदामः । यदि दृष्टान्त-बलेन एव एतत् निरूप्येत, न अचेतनं लोके चेतन अनाधिष्ठित स्वतंत्रं किंचित् विशिष्ट-पुरुषार्थ-निर्वर्तन-समर्थान् विकारान् विरचयत् दृष्टम् । गेह–प्रासाद-शयन-आसन-विहार-भूमिआदयः हि लोके प्रज्ञावद्भिः शिल्पिाभः यथाकालं सुख-दुःखप्राप्ति-परिहार-योग्याः रचिताः श्यन्ते । तथा इदं जगत् अखिलं, पृथिव्यादि नाना-कर्म-फल-उपभोग-योग्यं बाँहो, आध्यात्मिकं च शरीरादि नाना-जाति-अन्वितं, प्रतिनियतअवयव-विन्यासं, अनेक-कर्म-फल-अनुभव-अँधिष्ठानं, - (१) स्वतंत्र अचेतनं प्रकृतिः इति एतत् दृष्टान्त-बलेन तदा निरूप्येत, यदि दृष्टान्तः क्वचित् स्यात् । न तु दृष्टः क्वचित् इति अन्वयः ।। ( गोविंदानंद ) (२) यत् हि विचित्रं कार्य, तत् न स्वतंत्र-अचेतन-प्रकृतिक, यथा गृह-प्रासादादि इत्यर्थः॥(आनंदगिरि ) यत् विचित्र-रचनाआत्मकं कार्य, तत् चेतन-अधिष्ठित-अचेतन-प्रकृतिकम् ॥ ( गोविंदानंद ) (३) जगत् द्विविधं, बाह्य आध्यात्मिकं च । बाह्यं पृथिव्यादि । तत् विशिनष्टि-'नाना' इति । नानाविधं कर्म शुभ-अशुभं व्यामिश्ररूपं, अस्य फलं सुखं दुःखं च, तत्-उपभोग–योग्यं, साधनं इत्यर्थः ॥ ( आनंदगिरि ) । । (४) आध्यात्मिकं देहादि-जगत् विशिनष्टि- नाना' इत्यादिना। दव-तिर्यक् मनुष्यत्वाद्याः नानाविधाः जातयः, ताभिः अन्वित, तासां अधिष्ठान इत्यर्थः ॥ ( आनंदगिरि ) बाह्यं पृथिव्यादि भोग्य, यात्मिकं शरीरादि च भोग–अधिष्ठान इति विभागः ॥ ( गोविंदानंद )