पान:वैदिक तत्वमीमांसा.pdf/56

या पानाचे मुद्रितशोधन झालेले नाही

५३ वैदिक तत्त्वमीमांसा यावर शंकराचार्य असे म्हणतात:-इति चेत्, एवं अपि अविमोक्ष-प्रसंगः । यद्यपि क्वचित् विषये तर्कस्य प्रतिष्ठितत्वं उपलक्ष्यते, तथापि प्रकृते तावत् विषये प्रसज्यते एव अप्रतिष्ठितत्व-दोषात् अनिर्मोक्षः तर्कस्य । न हि इदं अतिगंभीर भाव-याथात्म्यं मुक्ति-निबन्धन आगमं अन्तरेण उत्प्रेक्षितुं अपि शक्यम् ।:००० अपि च सम्यक् ज्ञानात् मोक्षः इति सर्वेषां मोक्ष-वादिनां अभ्युपगमः । तत् च सम्यक्-ज्ञानं एकरूपं, वस्तु-तंत्रत्वात् । एकरूपेण हि अवस्थितः यः अर्थः सः परमार्थः । लोके तत्-विषयं ज्ञानं सम्यक्-ज्ञानं इति उच्यते । यथा अग्निः उष्णः इति । तत्र एवं सति, सम्यक् ज्ञाने पुरुषाणां विप्रतिपत्तिः अनुपपना । तर्क-ज्ञानानां तु अन्योन्य–विरोधात् प्रसिद्धा विप्रतिपत्तिः । यत् हि केनचित् तार्किकेण इदं एवं सम्यक् ज्ञान इति प्रतिपादितं, तत् अपरेण व्युत्थाप्यते । तेन अपि प्रतिष्ठापितं ततः अपरेण व्युत्थाप्यते । इति प्रसिद्धं लोके । कथं एकरूप-अनवास्थत-विषयं तर्क-प्रभवं सम्यक् ज्ञानं भवेत् । न च प्रधानवादी तर्कविदां उत्तमः इति सर्वैः तार्किकैः परिगृहीतः, येन तदीयं मतं सम्यक्-ज्ञानं इति प्रतिपद्यमहि । न च शक्यन्ते अतीत–अनागत–वर्तमानाः ताकिंकाः एकस्मिन् देशे काले च समाहर्तु, येन तत्-मतिः एकरूपा एकअर्थ-विषया सम्यक् मतिः इति स्यात् । वेदस्य तु नित्यत्वे विज्ञान-उत्पत्ति-हेतुत्वे च सति, व्यवस्थित-अर्थ-विषयत्वउपपत्तेः । तत्-जनितस्य ज्ञानस्य सम्यक्त्वं अतीत–अनागत–वर्तमानैः सर्वैः अपि तार्ककैः अपन्हीतुं अशक्यम् । अतः सिद्धं अस्य एवं औपनिषदस्य ज्ञानस्य सम्यकू-ज्ञान