श्रीमद्दासबोधतत्त्वस्तवः
||श्रीमद्दासबोधतत्त्वस्तवः ||
' दासस्त्वं भव रामस्य भवपारं स नेष्यति ' |
भवसेतुरिवाभाति दासबोधः प्रबोधयन् ||१||
' सर्वं हि पूरयत्येष श्रीरामो दासवांछितम् ' |
चिन्तामणिरिवाभाति दासबोधः प्रबोधयन् ||२||
' सर्वंप्रकारं दास्यं रामदास्येन नश्यति ' |
स्वातंत्रभाः प्रभातीत्थं दासबोधः प्रबोधयन् ||३||
' पापं तापं च दैन्यं च रामदास्येन नश्यति ' |
इत्येवं बोधयन् भाति दासबोधः प्रबोधयन् ||४||
' प्रपंचः परमार्थश्च रामदास्येन सिध्यति ' |
देहलीदीपवद्भाति दासबोधः प्रबोधयन् ||५||
' वासनाजालनिर्मोकः रामदास्येन संभवेत् ' |
भवाब्धिनौरिवाभाति दासबोधः प्रबोधयन् ||६||
' स्वाराज्यं च स्वराज्यं च रामदास्येन लभ्यते ' |
भातीत्थं बोधयन् नित्यं दासबोधः सुरद्रुमः ||७||
' श्रीसमर्थसमस्त्वंस्या रामदास्येन पावनः ' |
स्पर्शोपल इवाभाति दासबोधः प्रबोधयन् ||८||
' तवात्मा ब्रह्मरामोऽयं सा त्वमेव त्वमेव सः ' |
महावाक्यमिवाभाति दासबोधः प्रबोधयन् ||९||
' दासोऽपि रामदास्येन रामस्त्वं त्वमृतो भवेः ' |
इति प्रबोधयन् भाति दासबोधः प्रबोधयन् ||१०||
दासबोधश्चिदादित्यो यत्र कुत्रापि वा स्थितः |
अज्ञानतिमिरं शीघ्रं नाशयन् काशतेऽनिशम् ||११||
||इति श्रीमद्दासबोधतत्त्वस्तवः ||