छाया कोठें असे कोठें नसे । धाली भुकेली ज्याची तो नपुसे । ब्रह्मीं मायेचें जाण तैसें । स्फुरणही नसे सत्यत्वें ॥९॥
माझी छाया मजसवें आहे । हेहि आठवण कवणा कल्पांतीं नोहे । यापरी ब्रह्माचे ठायी पाहे । स्फूर्तिही नसाहे मायेची ॥५१०॥
 
श्रीशुकउवाचः- आत्ममायामृते राजन्परस्यानुभवात्मनः ।
नघटेतार्थसंबंधः स्वप्नद्रष्टुरिवांजसा ॥१॥
बहुरुप इवाभाति मायया बहुरुपया ॥
रममाणौ गुणेष्वस्या ममाहमिति मन्यते ॥२॥
यहि वाव महिम्नि स्वे परस्मिन्कालमाययोः ।
रमेत गतसंमोहस्त्यक्त्वोदास्ते तदोभयम् ॥३॥
आत्मतत्त्वविशुध्यर्थं यदाह भगवानृतम् ॥
ब्रह्मणे दर्शयन् रुपमव्यलीकव्रतादृतः ॥४॥
सआदिदेवो जगतां परोगुरुः स्वधिष्ण्यमास्थाय सिसृक्षयेक्षत ॥
तां नाध्यगच्छदृशमत्रसंगतां प्रपंचनिर्माणविधिर्यथा भवेत् ॥५॥
स चिंतयत् द्वयक्षरमेकदांभस्युपाश्रृणोत् द्विर्गदितं वचो विभुः ।
स्पर्शेषु यत्षोडशमेकर्विशं निष्किंचनानां नृपयद्धनं विदुः ॥६॥
निशम्यतद्वक्तृदिदृक्षया दिशो विलोक्य तत्रान्यदपश्यमानः ।
स्वधिष्ण्यमास्थाय विमृश्य तद्धितं तपस्युपादिष्ट इवादधे मनः ॥७॥
दिव्यं सहस्त्राब्दममोघदर्शनो जितानिलात्मा विजितोभर्येद्रियः ॥
अतप्यतस्माखिललोकतापनं तपस्तपीयांस्तपतांसमाहितः ॥८॥
तस्मै स्वलोकं भगवान्सभाजितः संदर्शयामास परं न यत्परम् ।
व्यपेतसंक्लेशविमोहसाध्वसं स्वदृष्टवद्भिर्विबुधरैभिष्टुतम् ॥९॥
प्रवर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः ।
न यत्र माया किमुतापरे हरेरनुवता यत्र सुरासुरार्चिताः ॥१०॥
श्यामावदाताः शतपत्रलोचनाः पिशंगवस्त्राः सुरुचः सुपेशसः ।
सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः ॥११॥
प्रवालवैडूर्यमृणालवर्चसः परिस्फुरत्कुंडलभौलिमालिनः ।
भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम् ॥१२॥
विद्योतमानाः प्रमदोत्तमा द्युभिः सविद्युदभ्रावलिभिर्यथा नभः ।
श्रीर्यत्र रुपिण्यरुगाय पादयोः करोति मानं बहुधा विभूतिभिः ॥१३॥
प्रेंखं श्रिता या कुसुमाकरानुगैर्विगीयमाना प्रियकर्म गायती ।
ददर्श तत्राखिलसात्वतां पतिं श्रियः पतिं यज्ञपतिं जगत्पतिम् ॥१४॥
सुनंदनंदप्रबलार्हणादिभिः स्वपार्षदमुख्यैः परिसेवितं विभुम् ।
भृत्यप्रसादाभिमुखं दृगासवं प्रसन्नहासारुणलोचनाननम् ॥१५॥
किरीटिनं कुंडलिनं चतुर्भुजं पीतांबरं वक्षसि लक्षितं श्रिया ।
अध्यर्हणीयासनमास्थितं परं वृतं चतुः षोडशपंचशक्तिभिः ॥१६॥
युक्तं भगैः स्वैरितरत्र चाधृवैः स्व एव धामन् रममाणमीश्वरम् ।
तद्दर्शनाल्हादपरिप्लुंतांतरो हष्यत्तनुः प्रेमभराशुलोचनः ॥१७॥
ननाम पादाबुजमस्य विश्वस्रुग्यत्पारमहंस्येन पथाऽधिगम्यते ।
तं प्रीयमाणं समुपस्थितं तदा प्रजाविसर्गे निजशासनार्हणम् ॥१८॥
बभाष ईषतस्मितरोचिषा गिरा । प्रियः प्रियं प्रीतमनाः करे स्पृशन् ॥१९॥

श्रीभगवानुवाच
त्वयाऽहं तोषितः सम्यग्वेदर्भसिसृक्षया ।
चिरंभृतेन तपसा दुस्तोषः कूटयोगिनाम् ॥२०॥
वरं वरय भद्रं ते वरेशं माऽभिवांछितम् ।
ब्रह्मत्र्च्छ्रेयः परिश्रामः पुंसो मद्दर्शनावधिः ॥२१॥
मनीषितानुभावोऽयं मम लोकावलोकनम् ।
यदुपश्रुत्य रहसि चकर्थं परमं तपः ॥२२॥
प्रत्यादिष्टं मया तत्र त्वयि कर्मविमोहिते ।
तपो मे हदयं साक्षादात्माऽहं तपसोऽनघ ॥२३॥
स्रुजामि तपसैवेदं ग्रसामि तपसा पुनः ।
बिभर्सि तपसा विश्वं वीर्यं मे दुश्चरं तपः ॥२४॥
ब्रह्मोवाच -
भगवन् सर्वभूतानामध्यक्षोऽवस्थितो गुहाम् ।
वेद हयप्रतिरुद्धेन प्रज्ञानन चिकीर्षितम् ॥२५।
तथाऽपि नाथमानस्य नाथ नाथय नाथितम् ।
परावरे यथा रुपे जानीयां ते त्वरुपिणः ॥२६॥
यथाऽऽत्ममायायोगेन नानाशक्त्युपबृंहितम् ।
विलुंपन्विसृजन्गृण्हन्बिभ्रदात्मानमात्मना ॥२७॥
क्रीडस्यमोघसंकल्प ऊर्णनाभिर्यथोर्णुते ।
तथा तद्विषयां धेहि मनीषां मयि माधव ॥२८॥
भगवच्छिक्षितमहं करवाणि ह्यतंद्रितः ।
नेहमानः प्रजासर्गं बद्धयेयंयदनुग्रहात् ॥२९॥
यावत्सखा सख्यरिवेश ते कृतः प्रजाविसर्गे विभजामि भोजनम् ।
अविक्लवस्ते परिकर्मणि स्थितो मा मे समुन्नद्धमदोऽजमानिनः ॥३०॥
यंदघ्रिकमलद्वंद्वं द्वंद्वतापनिवारकं ॥ तारकं भवसिंधौ च श्रीगुरुं प्रणमाम्यहं ।

श्रीभगवानुवाच ॥ ज्ञानं परमगुह्यं मे यद्विज्ञानसमन्वितं ।
सरहस्यं तदंगं च गृहाण गदितं मया ॥१॥
यावानहं यथाभावो यद्रूपगुणकर्मकः ।
तथैव तत्त्वविज्ञानमस्तु ते मदनुग्रहात् ॥२॥
अहमेवासमेवाग्रे नान्यद्यत्सदसत्परं ।
पश्चादहं यदेतच्च योऽवशिष्येत सोऽस्म्यहम् ॥३॥
ऋतेऽथं तत्प्रतीयेत न प्रतीयेत चाऽऽत्मनि ।
तद्विद्यादात्मनो मायां यथा भासो यथा तमः ॥४॥

निजछाया शस्त्रें नतुटे । पर्वतभारें कदा नदटे । काष्ठें कुटितां नकुटे । लोटितां न लोटे अणुमात्र ॥११॥
तेवीं निरसावया निजमाया । वाट नवले गा उपाया । ते उपाय येती अपाया । साधनीं माया ढळेना ॥१२॥
निजछाया तोडावया निवाडें । जें आणिजे त्यावरी छाया पडे । परी छाया तळी सांपडे । तें साधका नातुडे निजसाधनें ॥१३॥
छाया ज्याची त्यातळीं दडे । तेवीं ब्रह्मी माया समूळ उडे । माया दुजेपणें पहातां पुढें । अधिक वाढे अनिवार ॥१४॥
छाया जो धरुं पाहे पुढे । धरुं जातां अधिक वाढे । तेवीं माया साधनीं नातुडे । जाण फुडें परमेष्ठी ॥१५॥
तेवीं करावया मायानिरसन । साधन तितुकें मायिक जाण । जेणें होय मायेचें निर्दळण । तें साधका लक्षण लक्षेना ॥१६॥
लटिकपणे पहाता छाया । स्वयें लोपे लाजोनिया । तेवीं मिथ्यात्वें पाहतां माया । जाय हारपोनियां परब्रह्मी ॥१७॥
देह लक्षितां मिथ्या छाया । स्वरुप लक्षितां मिथ्या माया । हें सत्य जाण विधातया । छाया माया समान ॥१८॥

हे साहित्य भारतात तयार झालेले असून ते आता प्रताधिकार मुक्त झाले आहे. भारतीय प्रताधिकार कायदा १९५७ नुसार भारतीय साहित्यिकाच्या मृत्युनंतर ६० वर्षांनी त्याचे साहित्य प्रताधिकारमुक्त होते. त्यानुसार १ जानेवारी १९५६ पूर्वीचे अशा लेखकांचे सर्व साहित्य प्रताधिकारमुक्त होते.